ययातिरुवाच 001
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् 001a
प्रभ्रंशितः सुरसिद्धर्षिलोकात्परिच्युतः प्रपताम्यल्पपुण्यः 001c
अहं हि पूर्वो वयसा भवद्भ्यस्तेनाभिवादं भवतां न प्रयुञ्जे 002a
यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् 002c
अष्टक उवाच 003
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् 003a
यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् 003c
ययातिरुवाच 004
प्रतिकूलं कर्मणां पापमाहुस्तद्वर्ततेऽप्रवणे पापलोक्यम् 004a
सन्तोऽसतां नानुवर्तन्ति चैतद्यथा आत्मैषामनुकूलवादी 004c
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि 005a
एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् 005c
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः 006a
तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या 006c
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या 007a
तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् 007c
दुःखे न तप्येन्न सुखेन हृष्येत्समेन वर्तेत सदैव धीरः 008a
दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् 008c
भये न मुह्याम्यष्टकाहं कदाचित्सन्तापो मे मानसो नास्ति कश्चित् 009a
धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा 009c
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः 010a
तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते 010c
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् 011a
किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः 011c
अष्टक उवाच 012
ये ये लोकाः पार्थिवेन्द्र प्रधानास्त्वया भुक्ता यं च कालं यथा च 012a
तन्मे राजन्ब्रूहि सर्वं यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् 012c
ययातिरुवाच 013
राजाहमासमिह सार्वभौमस्ततो लोकान्महतो अजयं वै 013a
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 013c
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् 014a
अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 014c
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् 015a
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 015c
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् 016a
सम्पूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम् 016c
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् 017a
सहाप्सरोभिर्विहरन्पुण्यगन्धान्पश्यन्नगान्पुष्पितांश्चारुरूपान् 017c
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् 018a
दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण 018c
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः 019a
वाचोऽश्रौषं चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मानवेन्द्र 019c
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः 020a
तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु 020c
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि 021a
हविर्गन्धं देशिकं यज्ञभूमेर्धूमापाङ्गं प्रतिगृह्य प्रतीतः 021c