इन्द्र उवाच 001
सर्वाणि कर्माणि समाप्य राजन्गृहान्परित्यज्य वनं गतोऽसि 001a
तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते 001c
ययातिरुवाच 002
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु 002a
आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव 002c
इन्द्र उवाच 003
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः 003a
तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् 003c
ययातिरुवाच 004
सुरर्षिगन्धर्वनरावमानात्क्षयं गता मे यदि शक्र लोकाः 004a
इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज 004c
इन्द्र उवाच 005
सतां सकाशे पतितासि राजंश्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः 005a
एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च 005c
वैशम्पायन उवाच 006
ततः प्रहायामरराजजुष्टान्पुण्याल्ँलोकान्पतमानं ययातिम् 006a
सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्तमुवाच सद्धर्मविधानगोप्ता 006c
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः 007a
पतस्युदीर्णाम्बुधरान्धकारात्खात्खेचराणां प्रवरो यथार्कः 007c
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् 008a
किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः 008c
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् 009a
अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः 009c
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः 010a
तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किन्निमित्तं त्वमागाः 010c
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप 011a
त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः 011c
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प 012a
ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु 012c
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः 013a
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः 013c