वैशम्पायन उवाच 001
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि 001a
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा 001c
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी 002a
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः 002c
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् 003a
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः 003c
शक्र उवाच 004
यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार भूमौ 004a
तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् 004c
ययातिरुवाच 005
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव 005a
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव 005c
अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः 006a
अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः 006c
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः 007a
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 007c
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत 008a
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् 008c
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् 009a
विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निर्ऋतिं वहन्तम् 009c
सद्भिः पुरस्तादभिपूजितः स्यात्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् 010a
सदासतामतिवादांस्तितिक्षेत्सतां वृत्तं चाददीतार्यवृत्तः 010c
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि 011a
परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु 011c
न हीदृशं संवननं त्रिषु लोकेषु विद्यते 012a
यथा मैत्री च भूतेषु दानं च मधुरा च वाक् 012c
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् 013a
पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन 013c