वैशम्पायन उवाच 001
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् 001a
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः 001c
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः 002a
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः 002c
स गतः सुरवासं तं निवसन्मुदितः सुखम् 003a
कालस्य नातिमहतः पुनः शक्रेण पातितः 003c
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् 004a
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया 004c
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः 005a
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् 005c
प्रतर्दनेन शिबिना समेत्य किल संसदि 005e
जनमेजय उवाच 006
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः 006a
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः 006c
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ 006e
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः 007a
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः 007c
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः 008a
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः 008c
वैशम्पायन उवाच 009
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् 009a
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् 009c
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् 010a
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा 010c
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् 011a
फलमूलाशनो राजा वने सन्न्यवसच्चिरम् 011c
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः 012a
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः 012c
अतिथीन्पूजयामास वन्येन हविषा विभुः 013a
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः 013c
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः 014a
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः 014c
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः 015a
पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः 015c
एकपादस्थितश्चासीत्षण्मासाननिलाशनः 016a
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी 016c