वैश्म्पायन उवाच 001
पौरवेणाथ वयसा ययातिर्नहुषात्मजः 001a
प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् 001c
यथाकामं यथोत्साहं यथाकालं यथासुखम् 002a
धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि 002c
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि 003a
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् 003c
अतिथीनन्नपानैश्च विशश्च परिपालनैः 004a
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च 004c
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् 005a
ययातिः पालयामास साक्षादिन्द्र इवापरः 005c
स राजा सिंहविक्रान्तो युवा विषयगोचरः 006a
अविरोधेन धर्मस्य चचार सुखमुत्तमम् 006c
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः 007a
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः 007c
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् 008a
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह 008c
यथाकामं यथोत्साहं यथाकालमरिन्दम 009a
सेविता विषयाः पुत्र यौवनेन मया तव 009c
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् 010a
राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः 010c
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा 011a
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः 011c
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् 012a
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् 012c
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो 013a
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि 013c
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः 014a
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च 014c
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति 015a
एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय 015c
ययातिरुवाच 016
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः 016a
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन 016c
मम ज्येष्ठेन यदुना नियोगो नानुपालितः 017a
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः 017c
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः 018a
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु 018c
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च 019a
द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् 019c
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः 020a
कनीयान्मम दायादो जरा येन धृता मम 020c
मम कामः स च कृतः पूरुणा पुत्ररूपिणा 020e
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् 021a
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः 021c
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् 021e
प्रकृतय ऊचुः 022
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा 022a
सर्वमर्हति कल्याणं कनीयानपि स प्रभो 022c
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव 023a
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् 023c
वैशम्पायन उवाच 024
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा 024a
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् 024c
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः 025a
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह 025c
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः 026a
द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः 026c
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव 027a
इदं वर्षसहस्राय राज्यं कारयितुं वशी 027c