वैशम्पायन उवाच 001
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह 001a
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः 001c
जरा वली च मां तात पलितानि च पर्यगुः 002a
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने 002c
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह 003a
यौवनेन त्वदीयेन चरेयं विषयानहम् 003c
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् 004a
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह 004c
यदुरुवाच 005
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः 005a
वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः 005c
अशक्तः कार्यकरणे परिभूतः स यौवनैः 006a
सहोपजीविभिश्चैव तां जरां नाभिकामये 006c
ययातिरुवाच 007
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 007a
तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति 007c
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह 008a
यौवनेन चरेयं वै विषयांस्तव पुत्रक 008c
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् 009a
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 009c
तुर्वसुरुवाच 010
न कामये जरां तात कामभोगप्रणाशिनीम् 010a
बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् 010c
ययातिरुवाच 011
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 011a
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति 011c
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च 012a
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि 012c
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च 013a
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि 013c
वैशम्पायन उवाच 014
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः 014a
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् 014c
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् 015a
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च 015c
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 016a
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह 016c
द्रुह्युरुवाच 017
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् 017a
वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये 017c
ययातिरुवाच 018
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 018a
तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् 018c
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति 019a
अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः 019c
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 020a
एकं वर्षसहस्रं तु चरेयं यौवनेन ते 020c
अनुरुवाच 021
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा 021a
न जुहोति च कालेऽग्निं तां जरां नाभिकामये 021c
ययातिरुवाच 022
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 022a
जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे 022c
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव 023a
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि 023c
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि 024a
जरा वली च मे तात पलितानि च पर्यगुः 024c
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने 024e
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 025a
कञ्चित्कालं चरेयं वै विषयान्वयसा तव 025c
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 026a
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 026c
वैशम्पायन उवाच 027
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा 027a
यथात्थ मां महाराज तत्करिष्यामि ते वचः 027c
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह 028a
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् 028c
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव 029a
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् 029c
ययातिरुवाच 030
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते 030a
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति 030c