वैशम्पायन उवाच 001
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता 001a
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत 001c
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् 002a
किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया 002c
शर्मिष्ठोवाच 003
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः 003a
स मया वरदः कामं याचितो धर्मसंहितम् 003c
नाहमन्यायतः काममाचरामि शुचिस्मिते 004a
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते 004c
देवयान्युवाच 005
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः 005a
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् 005c
शर्मिष्ठोवाच 006
ओजसा तेजसा चैव दीप्यमानं रविं यथा 006a
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते 006c
देवयान्युवाच 007
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम 007a
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् 007c
वैशम्पायन उवाच 008
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः 008a
जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी 008c
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः 009a
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ 009c
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी 010a
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् 010c
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता 011a
ययातिसहिता राजन्निर्जगाम महावनम् 011c
ददर्श च तदा तत्र कुमारान्देवरूपिणः 012a
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् 012c
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः 013a
वर्चसा रूपतश्चैव सदृशा मे मतास्तव 013c
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत 014a
किन्नामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता 014c
विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् 014e
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् 015a
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः 015c
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः 016a
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके 016c
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः 016e
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति 017a
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् 017c
मदधीना सती कस्मादकार्षीर्विप्रियं मम 018a
तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् 018c
शर्मिष्ठोवाच 019
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि 019a
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते 019c
यदा त्वया वृतो राजा वृत एव तदा मया 020a
सखीभर्ता हि धर्मेण भर्ता भवति शोभने 020c
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी 021a
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् 021c
वैशम्पायन उवाच 022
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् 022a
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया 022c
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् 023a
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा 023c
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः 024a
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना 024c
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना 025a
अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् 025c
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता 026a
अनन्तरं ययातिस्तु पूजयामास भार्गवम् 026c
देवयान्युवाच 027
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् 027a
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः 027c
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना 028a
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते 028c
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह 029a
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते 029c
शुक्र उवाच 030
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् 030a
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया 030c
ययातिरुवाच 031
ऋतुं वै याचमानाया भगवन्नान्यचेतसा 031a
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया 031c
ऋतुं वै याचमानाया न ददाति पुमान्वृतः 032a
भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः 032c
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः 033a
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः 033c
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह 034a
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् 034c
शुक्र उवाच 035
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव 035a
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष 035c
वैशम्पायन उवाच 036
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा 036a
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत 036c
ययातिरुवाच 037
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह 037a
प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् 037c
शुक्र उवाच 038
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप 038a
जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि 038c
ययातिरुवाच 039
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा 039a
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् 039c
शुक्र उवाच 040
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज 040a
मामनुध्याय भावेन न च पापमवाप्स्यसि 040c
वयो दास्यति ते पुत्रो यः स राजा भविष्यति 041a
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च 041c