वैशम्पायन उवाच 001
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम् 001a
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् 001c
देवयान्याश्चानुमते तां सुतां वृषपर्वणः 002a
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् 002c
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् 003a
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् 003c
देवयान्या तु सहितः स नृपो नहुषात्मजः 004a
विजहार बहूनब्दान्देववन्मुदितो भृशम् 004c
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना 005a
लेभे गर्भं प्रथमतः कुमारं च व्यजायत 005c
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी 006a
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् 006c
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः 007a
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् 007c
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना 008a
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् 008c
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः 009a
अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः 009c
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया 010a
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः 010c
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी 011a
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् 011c
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा 012a
तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति 012c
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा 013a
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप 013c
ययातिरुवाच 014
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् 014a
रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् 014c
अब्रवीदुशना काव्यो देवयानीं यदावहम् 015a
नेयमाह्वयितव्या ते शयने वार्षपर्वणी 015c
शर्मिष्ठोवाच 016
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले 016a
प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि 016c
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र 017a
एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति 017c
ययातिरुवाच 018
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् 018a
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे 018c
शर्मिष्ठोवाच 019
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः 019a
समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः 019c
ययातिरुवाच 020
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् 020a
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते 020c
शर्मिष्ठोवाच 021
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय 021a
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् 021c
त्रय एवाधना राजन्भार्या दासस्तथा सुतः 022a
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् 022c
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी 023a
सा चाहं च त्वया राजन्भरणीये भजस्व माम् 023c
वैशम्पायन उवाच 024
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् 024a
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् 024c
समागम्य च शर्मिष्ठां यथाकाममवाप्य च 025a
अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् 025c
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी 026a
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् 026c
प्रजज्ञे च ततः काले राजन्राजीवलोचना 027a
कुमारं देवगर्भाभं राजीवनिभलोचनम् 027c