वैशम्पायन उवाच 001
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम 001a
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी 001c
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा 002a
तमेव देशं सम्प्राप्ता यथाकामं चचार सा 002c
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् 002e
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् 003a
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च 003c
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया 004a
तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः 004c
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः 005a
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः 005c
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् 006a
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् 006c
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः 006e
ययातिरुवाच 007
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते 007a
गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् 007c
देवयान्युवाच 008
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप 008a
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् 008c
इयं च मे सखी दासी यत्राहं तत्र गामिनी 009a
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः 009c
ययातिरुवाच 010
कथं नु ते सखी दासी कन्येयं वरवर्णिनी 010a
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे 010c
देवयान्युवाच 011
सर्व एव नरव्याघ्र विधानमनुवर्तते 011a
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः 011c
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च 012a
किन्नामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे 012c
ययातिरुवाच 013
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः 013a
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः 013c
देवयान्युवाच 014
केनास्यर्थेन नृपते इमं देशमुपागतः 014a
जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया 014c
ययातिरुवाच 015
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः 015a
बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि 015c
देवयान्युवाच 016
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह 016a
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव 016c
ययातिरुवाच 017
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि 017a
अविवाह्या हि राजानो देवयानि पितुस्तव 017c
देवयान्युवाच 018
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् 018a
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् 018c
ययातिरुवाच 019
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने 019a
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः 019c
देवयान्युवाच 020
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा 020a
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः 020c
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् 021a
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया 021c
ययातिरुवाच 022
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् 022a
दुराधर्षतरो विप्रः पुरुषेण विजानता 022c
देवयान्युवाच 023
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् 023a
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ 023c
ययातिरुवाच 024
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते 024a
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः 024c
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम 025a
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् 025c
देवयान्युवाच 026
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया 026a
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः 026c
वैशम्पायन उवाच 027
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः 027a
श्रुत्वैव च स राजानं दर्शयामास भार्गवः 027c
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः 028a
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः 028c
देवयान्युवाच 029
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् 029a
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे 029c
शुक्र उवाच 030
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया 030a
गृहाणेमां मया दत्तां महिषीं नहुषात्मज 030c
ययातिरुवाच 031
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव 031a
वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् 031c
शुक्र उवाच 032
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् 032a
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते 032c
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् 033a
अनया सह सम्प्रीतिमतुलां समवाप्स्यसि 033c
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी 034a
सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः 034c
वैशम्पायन उवाच 035
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् 035a
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना 035c