वैशम्पायन उवाच 001
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह 001a
वृषपर्वाणमासीनमित्युवाचाविचारयन् 001c
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव 002a
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति 002c
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे 002e
यदघातयथा विप्रं कचमाङ्गिरसं तदा 003a
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् 003c
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम 004a
वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् 004c
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह 004e
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् 005a
यथेममात्मनो दोषं न नियच्छस्युपेक्षसे 005c
वृषपर्वोवाच 006
नाधर्मं न मृषावादं त्वयि जानामि भार्गव 006a
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् 006c
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव 007a
समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् 007c
शुक्र उवाच 008
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः 008a
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे 008c
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् 009a
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः 009c
वृषपर्वोवाच 010
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव 010a
भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः 010c
शुक्र उवाच 011
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर 011a
तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् 011c
देवयान्युवाच 012
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव 012a
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् 012c
वृषपर्वोवाच 013
यं काममभिकामासि देवयानि शुचिस्मिते 013a
तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् 013c
देवयान्युवाच 014
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये 014a
अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता 014c
वृषपर्वोवाच 015
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय 015a
यं च कामयते कामं देवयानी करोतु तम् 015c
वैशम्पायन उवाच 016
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् 016a
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह 016c
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः 017a
सा यं कामयते कामं स कार्योऽद्य त्वयानघे 017c
शर्मिष्ठोवाच 018
सा यं कामयते कामं करवाण्यहमद्य तम् 018a
मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते 018c
वैशम्पायन उवाच 019
ततः कन्यासहस्रेण वृता शिबिकया तदा 019a
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् 019c
शर्मिष्ठोवाच 020
अहं कन्यासहस्रेण दासी ते परिचारिका 020a
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता 020c
देवयान्युवाच 021
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः 021a
स्तूयमानस्य दुहिता कथं दासी भविष्यसि 021c
शर्मिष्ठोवाच 022
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् 022a
अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता 022c
वैशम्पायन उवाच 023
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः 023a
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् 023c
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम 024a
अमोघं तव विज्ञानमस्ति विद्याबलं च ते 024c
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः 025a
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः 025c