शुक्र उवाच 001
यः परेषां नरो नित्यमतिवादांस्तितिक्षति 001a
देवयानि विजानीहि तेन सर्वमिदं जितम् 001c
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा 002a
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते 002c
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति 003a
देवयानि विजानीहि तेन सर्वमिदं जितम् 003c
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति 004a
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते 004c
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति 005a
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् 005c
यो यजेदपरिश्रान्तो मासि मासि शतं समाः 006a
न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः 006c
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः 007a
न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् 007c
देवयान्युवाच 008
वेदाहं तात बालापि धर्माणां यदिहान्तरम् 008a
अक्रोधे चातिवादे च वेद चापि बलाबलम् 008c
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता 009a
तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते 009c
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च 010a
न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु 010c
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च 011a
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते 011c
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः 012a
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु 012c
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते 012e