वैशम्पायन उवाच 001
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः 001a
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ 001c
सर्व एव समागम्य शतक्रतुमथाब्रुवन् 002a
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर 002c
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा 003a
तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः 003c
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे 004a
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् 004c
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा 005a
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः 005c
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा 006a
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः 006c
ततस्तयोर्मिथस्तत्र विरोधः समजायत 007a
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते 007c
देवयान्युवाच 008
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि 008a
समुदाचारहीनाया न ते श्रेयो भविष्यति 008c
शर्मिष्ठोवाच 009
आसीनं च शयानं च पिता ते पितरं मम 009a
स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् 009c
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः 010a
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः 010c
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि 011a
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् 011c
वैश्म्पायन उवाच 012
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि 012a
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् 012c
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया 013a
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा 013c
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः 014a
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः 014c
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् 015a
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव 015c
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् 016a
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना 016c
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला 017a
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा 017c
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते 018a
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे 018c
देवयान्युवाच 019
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया 019a
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते 019c
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः 020a
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः 020c
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् 021a
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि 021c
वैशम्पायन उवाच 022
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः 022a
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् 022c
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः 023a
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ 023c
देवयान्युवाच 024
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः 024a
नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः 024c
वैशम्पायन उवाच 025
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् 025a
दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना 025c
आचक्षे ते महाप्राज्ञ देवयानी वने हता 026a
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः 026c
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् 027a
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने 027c
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने 028a
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् 028c
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः 029a
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता 029c
देवयान्युवाच 030
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम 030a
शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः 030c
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः 030e
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी 031a
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् 031c
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः 032a
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः 032c
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः 033a
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः 033c
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः 034a
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया 034c
शुक्र उवाच 035
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः 035a
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि 035c
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः 036a
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम 036c