जनमेजय उवाच 001
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः 001a
कथं स शुक्रतनयां लेभे परमदुर्लभाम् 001c
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम 002a
आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् 002c
वैशम्पायन उवाच 003
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः 003a
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा 003c
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय 004a
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च 004c
सुराणामसुराणां च समजायत वै मिथः 005a
ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे 005c
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् 006a
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे 006c
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् 006e
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् 007a
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् 007c
ततस्ते पुनरुत्थाय योधयाञ्चक्रिरे सुरान् 007e
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि 008a
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः 008c
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् 009a
सञ्जीवनीं ततो देवा विषादमगमन्परम् 009c
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा 010a
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः 010c
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् 011a
यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि 011c
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि 011e
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः 012a
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् 012c
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् 013a
देवयानीं च दयितां सुतां तस्य महात्मनः 013c
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते 014a
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च 014c
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् 014e
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः 015a
तदाभिपूजितो देवैः समीपं वृषपर्वणः 015c
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः 016a
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह 016c
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः 017a
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् 017c
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ 018a
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् 018c
शुक्र उवाच 019
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः 019a
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः 019c
वैशम्पायन उवाच 020
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् 020a
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् 020c
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत 021a
आराधयन्नुपाध्यायं देवयानीं च भारत 021c
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे 022a
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् 022c
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् 023a
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत 023c
देवयान्यपि तं विप्रं नियमव्रतचारिणम् 024a
अनुगायमाना ललना रहः पर्यचरत्तदा 024c
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् 025a
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् 025c
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः 026a
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च 026c
हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् 026e
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् 027a
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् 027c
उवाच वचनं काले देवयान्यथ भारत 027e
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो 028a
अगोपाश्चागता गावः कचस्तात न दृश्यते 028c
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति 029a
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते 029c
शुक्र उवाच 030
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् 030a
वैशम्पायन उवाच 031
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् 031a
आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया 031c
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया 031e
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया 032a
वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् 032c
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः 033a
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा 033c
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् 034a
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते 034c
शुक्र उवाच 035
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः 035a
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् 035c
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् 036a
सुराश्च विश्वे च जगच्च सर्वमुपस्थितां वैकृतिमानमन्ति 036c
देवयान्युवाच 037
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः 037a
ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् 037c
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः 038a
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः 038c
शुक्र उवाच 039
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति 039a
अब्राह्मणं कर्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि 039c
अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् 039e
वैशम्पायन उवाच 040
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् 040a
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् 040c
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार 041a
तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र 041c
कच उवाच 042
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् 042a
न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि 042c
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य 043a
ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् 043c
शुक्र उवाच 044
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य 044a
नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि 044c
देवयान्युवाच 045
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः 045a
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता 045c
शुक्र उवाच 046
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी 046a
विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य 046c
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् 047a
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि 047c
पुत्रो भूत्वा भावय भावितो मामस्माद्देहादुपनिष्क्रम्य तात 048a
समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः 048c
वैशम्पायन उवाच 049
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः 049a
कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः 049c
दृष्ट्वा च तं पतितं ब्रह्मराशिमुत्थापयामास मृतं कचोऽपि 050a
विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच 050c
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् 051a
ये नाद्रियन्ते गुरुमर्चनीयं; पापाल्ँलोकांस्ते व्रजन्त्यप्रतिष्ठान् 051c
वैशम्पायन उवाच 052
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् 052a
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन 052c
समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः 053a
काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः 053c
यो ब्राह्मणोऽद्य प्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः 054a
अपेतधर्मो ब्रह्महा चैव स स्यादस्मिल्ँलोके गर्हितः स्यात्परे च 054c
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके 055a
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे 055c
इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः 056a
तान्दानवान्दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच 056c
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे 057a
सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः 057c
गुरोरुष्य सकाशे तु दश वर्षशतानि सः 058a
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् 058c