वैशम्पायन उवाच 001
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च 001a
भरतस्य कुरोः पूरोरजमीढस्य चान्वये 001c
यादवानामिमं वंशं पौरवाणां च सर्वशः 002a
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् 002c
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ 002e
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः 003a
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः 003c
मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः 003e
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः 004a
सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः 004c
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः 005a
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् 005c
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः 006a
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् 006c
ततः पञ्चाशतं कन्याः पुत्रिका अभिसन्दधे 007a
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय 007c
ददौ स दश धर्माय कश्यपाय त्रयोदश 008a
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे 008c
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा 009a
मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् 009c
इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च 009e
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः 010a
मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत 010c
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः 011a
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् 011c
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः 011e
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् 012a
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् 012c
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च 013a
करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् 013c
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् 014a
नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् 014c
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ 015a
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् 015c
पुरूरवास्ततो विद्वानिलायां समपद्यत 016a
सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् 016c
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः 017a
अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः 017c
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः 018a
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि 018c
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह 019a
अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ 019c
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत 020a
लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः 020c
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् 021a
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा 021c
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः 022a
दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः 022c
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् 023a
स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते 023c
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः 024a
राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः 024c
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् 025a
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः 025c
स हत्वा दस्युसङ्घातानृषीन्करमदापयत् 026a
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् 026c
कारयामास चेन्द्रत्वमभिभूय दिवौकसः 027a
तेजसा तपसा चैव विक्रमेणौजसा तथा 027c
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् 028a
नहुषो जनयामास षट्पुत्रान्प्रियवाससि 028c
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः 029a
स पालयामास महीमीजे च विविधैः सवैः 029c
अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा 030a
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः 030c
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः 031a
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे 031c
देवयान्यामजायेतां यदुस्तुर्वसुरेव च 032a
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे 032c
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् 033a
जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् 033c
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् 034a
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत 034c
यौवनेन चरन्कामान्युवा युवतिभिः सह 035a
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः 035c
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् 036a
किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च 036c
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् 037a
यौवनेन त्वदीयेन चरेयं विषयानहम् 037c
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः 038a
कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः 038c
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः 039a
अहं तन्वाभिनवया युवा कामानवाप्नुयाम् 039c
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् 040a
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः 040c
राजंश्चराभिनवया तन्वा यौवनगोचरः 041a
अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया 041c
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् 042a
सञ्चारयामास जरां तदा पुत्रे महात्मनि 042c
पौरवेणाथ वयसा राजा यौवनमास्थितः 043a
यायातेनापि वयसा राज्यं पूरुरकारयत् 043c
ततो वर्षसहस्रान्ते ययातिरपराजितः 044a
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह 044c
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः 045a
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति 045c
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च 046a
कालेन महता पश्चात्कालधर्ममुपेयिवान् 046c