शकुन्तलोवाच 001
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि 001a
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि 001c
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् 002a
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः 002c
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् 003a
आवयोरन्तरं पश्य मेरुसर्षपयोरिव 003c
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च 004a
भवनान्यनुसंयामि प्रभावं पश्य मे नृप 004c
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ 005a
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि 005c
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् 006a
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् 006c
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते 007a
तदेतरं विजानाति आत्मानं नेतरं जनम् 007c
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते 008a
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः 008c
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 009a
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः 009c
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 010a
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः 010c
अन्यान्परिवदन्साधुर्यथा हि परितप्यते 011a
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः 011c
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् 012a
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः 012c
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः 013a
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् 013c
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते 014a
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् 014c
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव 015a
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः 015c
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते 016a
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते 016c
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् 017a
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् 017c
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् 018a
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् 018c
धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः 019a
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् 019c
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि 020a
आत्मानं सत्यधर्मौ च पालयानो महीपते 020c
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि 020e
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः 021a
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् 021c
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 022a
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते 022c
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् 023a
सत्यं च वदतो राजन्समं वा स्यान्न वा समम् 023c
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् 024a
न हि तीव्रतरं किञ्चिदनृतादिह विद्यते 024c
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः 025a
मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते 025c
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् 026a
आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् 026c
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् 027a
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति 027c
वैशम्पायन उवाच 028
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला 028a
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी 028c
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा 028e
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः 029a
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 029c
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 030a
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला 030c
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् 031a
तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप 031c
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् 032a
शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव 032c
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि 033a
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः 033c
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् 034a
पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् 034c
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् 035a
अहमप्येवमेवैनं जानामि स्वयमात्मजम् 035c
यद्यहं वचनादेव गृह्णीयामिममात्मजम् 036a
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् 036c
तं विशोध्य तदा राजा देवदूतेन भारत 037a
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् 037c
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे 038a
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः 038c
038e स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः 039a
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः 039c
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह 040a
तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् 040c
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् 041a
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् 041c
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये 042a
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे 042c
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् 043a
वासोभिरन्नपानैश्च पूजयामास भारत 043c
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा 044a
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् 044c
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः 045a
भास्वरं दिव्यमजितं लोकसन्नादनं महत् 045c
स विजित्य महीपालांश्चकार वशवर्तिनः 046a
चचार च सतां धर्मं प्राप चानुत्तमं यशः 046c
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् 047a
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः 047c
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् 048a
श्रीमान्गोविततं नाम वाजिमेधमवाप सः 048c
048e यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् 049a
अपरे ये च पूर्वे च भारता इति विश्रुताः 049c
भरतस्यान्ववाये हि देवकल्पा महौजसः 050a
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः 050c
येषामपरिमेयानि नामधेयानि सर्वशः 051a
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत 051c
051e महाभागान्देवकल्पान्सत्यार्जवपरायणान्स