वैशम्पायन उवाच 001
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला 001a
गर्भं सुषाव वामोरुः कुमारममितौजसम् 001c
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् 002a
रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय 002c
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः 003a
तस्याथ कारयामास वर्धमानस्य धीमतः 003c
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा 004a
चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः 004c
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत 004e
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति 005a
व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा 005c
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः 006a
आरोहन्दमयंश्चैव क्रीडंश्च परिधावति 006c
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः 007a
अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् 007c
स सर्वदमनो नाम कुमारः समपद्यत 008a
विक्रमेणौजसा चैव बलेन च समन्वितः 008c
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् 009a
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् 009c
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह 010a
शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् 010c
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् 010e
नारीणां चिरवासो हि बान्धवेषु न रोचते 011a
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् 011c
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः 012a
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् 012c
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् 013a
आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् 013c
अभिसृत्य च राजानं विदिता सा प्रवेशिता 014a
सह तेनैव पुत्रेण तरुणादित्यवर्चसा 014c
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला 015a
अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् 015c
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः 016a
यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम 016c
यथा समागमे पूर्वं कृतः स समयस्त्वया 017a
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति 017c
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि 018a
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि 018c
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह 019a
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु 019c
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी 020a
विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला 020c
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा 021a
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत 021c
आकारं गूहमाना च मन्युनाभिसमीरिता 022a
तपसा सम्भृतं तेजो धारयामास वै तदा 022c
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता 023a
भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् 023c
जानन्नपि महाराज कस्मादेवं प्रभाषसे 024a
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा 024c
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च 025a
कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः 025c
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते 026a
किं तेन न कृतं पापं चोरेणात्मापहारिणा 026c
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् 027a
यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि 027c
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति 028a
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः 028c
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च 029a
अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् 029c
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् 030a
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति 030c
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः 031a
तं यमः पापकर्माणं निर्यातयति दुष्कृतम् 031c
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते 032a
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् 032c
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् 033a
अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् 033c
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि 034a
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे 034c
यदि मे याचमानाया वचनं न करिष्यसि 035a
दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति 035c
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः 036a
जायाया इति जायात्वं पुराणाः कवयो विदुः 036c
यदागमवतः पुंसस्तदपत्यं प्रजायते 037a
तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् 037c
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः 038a
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा 038c
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती 039a
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता 039c
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा 040a
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः 040c
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः 041a
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः 041c
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः 042a
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः 042c
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै 043a
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः 043c
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् 044a
भार्यैवान्वेति भर्तारं सततं या पतिव्रता 044c
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते 045a
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति 045c
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते 046a
यदाप्नोति पतिर्भार्यामिह लोके परत्र च 046c
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः 047a
तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् 047c
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् 048a
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् 048c
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः 049a
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव 049c
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः 050a
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च 050c
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् 051a
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः 051c
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः 052a
पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः 052c
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् 053a
प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे 053c
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः 054a
न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् 054c
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः 055a
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः 055c
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् 056a
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः 056c
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः 057a
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते 057c
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिन्दम 058a
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् 058c
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव 059a
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा 059c
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः 060a
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः 060c
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः 061a
जातकर्मणि पुत्राणां तवापि विदितं तथा 061c
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे 062a
आत्मा वै पुत्रनामासि स जीव शरदः शतम् 062c
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् 063a
तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् 063c
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः 064a
सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् 064c
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते 065a
तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः 065c
मृगापकृष्टेन हि ते मृगयां परिधावता 066a
अहमासादिता राजन्कुमारी पितुराश्रमे 066c
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका 067a
विश्वाची च घृताची च षडेवाप्सरसां वराः 067c
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः 068a
दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् 068c
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः 069a
अवकीर्य च मां याता परात्मजमिवासती 069c
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि 070a
यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया 070c
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् 071a
इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना 071c
072 दुःषन्त उवाच
न पुत्रमभिजानामि त्वयि जातं शकुन्तले 072a
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः 072c
मेनका निरनुक्रोशा बन्धकी जननी तव 073a
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता 073c
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव 074a
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः 074c
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता 075a
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि 075c
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे 076a
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् 076c
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका 077a
क्व च त्वमेवं कृपणा तापसीवेषधारिणी 077c
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् 078a
कथमल्पेन कालेन शालस्कन्ध इवोद्गतः 078c
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे 079a
यदृच्छया कामरागाज्जाता मेनकया ह्यसि 079c
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि 080a
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया 080c