दुःषन्त उवाच 001
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे 001a
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते 001c
सुवर्णमाला वासांसि कुण्डले परिहाटके 002a
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने 002c
आहरामि तवाद्याहं निष्कादीन्यजिनानि च 003a
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने 003c
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 004a
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 004c
शकुन्तलोवाच 005
फलाहारो गतो राजन्पिता मे इत आश्रमात् 005a
तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति 005c
दुःषन्त उवाच 006
इच्छामि त्वां वरारोहे भजमानामनिन्दिते 006a
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम 006c
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः 007a
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः 007c
अष्टावेव समासेन विवाहा धर्मतः स्मृताः 008a
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः 008c
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः 009a
तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् 009c
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय 010a
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते 010c
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः 011a
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह 011c
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन 012a
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता 012c
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः 013a
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः 013c
सा त्वं मम सकामस्य सकामा वरवर्णिनि 014a
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि 014c
शकुन्तलोवाच 015
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम 015a
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो 015c
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः 016a
मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् 016c
युवराजो महाराज सत्यमेतद्ब्रवीहि मे 017a
यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया 017c
वैशम्पायन उवाच 018
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् 018a
अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते 018c
यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते 018e
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् 019a
जग्राह विधिवत्पाणावुवास च तया सह 019c
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः 020a
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् 020c
तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते 020e
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय 021a
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः 021c
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति 022a
एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् 022c
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् 023a
शकुन्तला च पितरं ह्रिया नोपजगाम तम् 023c
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः 024a
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा 024c
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः 025a
पुंसा सह समायोगो न स धर्मोपघातकः 025c
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते 026a
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः 026c
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः 027a
अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले 027c
महात्मा जनिता लोके पुत्रस्तव महाबलः 028a
य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् 028c
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः 029a
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः 029c
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् 030a
विनिधाय ततो भारं सन्निधाय फलानि च 030c
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः 031a
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि 031c
कण्व उवाच 032
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि 032a
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् 032c
वैशम्पायन उवाच 033
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा 033a
शकुन्तला पौरवाणां दुःषन्तहितकाम्यया 033c