शकुन्तलोवाच 001
एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् 001a
प्रातिष्ठत तदा काले मेनका वायुना सह 001c
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् 002a
विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे 002c
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ 003a
अपोवाह च वासोऽस्या मारुतः शशिसन्निभम् 003c
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती 004a
उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी 004c
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः 005a
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा 005c
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा 006a
चकार भावं संसर्गे तया कामवशं गतः 006c
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता 007a
तौ तत्र सुचिरं कालं वने व्यहरतामुभौ 007c
रममाणौ यथाकामं यथैकदिवसं तथा 007e
जनयामास स मुनिर्मेनकायां शकुन्तलाम् 008a
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् 008c
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु 009a
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् 009c
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले 010a
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् 010c
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः 011a
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् 011c
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् 012a
निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् 012c
आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् 012e
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते 013a
क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये 013c
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता 014a
शकुन्तलेति नामास्याः कृतं चापि ततो मया 014c
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् 015a
शकुन्तला च पितरं मन्यते मामनिन्दिता 015c
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये 016a
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप 016c
कण्वं हि पितरं मन्ये पितरं स्वमजानती 017a
इति ते कथितं राजन्यथावृत्तं श्रुतं मया 017c