वैशम्पायन उवाच 001
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् 001a
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् 001c
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् 002a
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव 002c
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी 003a
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी 003c
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा 004a
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च 004c
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि 005a
पप्रच्छानामयं राजन्कुशलं च नराधिपम् 005c
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा 006a
उवाच स्मयमानेव किं कार्यं क्रियतामिति 006c
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् 007a
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः 007c
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् 008a
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने 008c
शकुन्तलोवाच 009
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् 009a
मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् 009c
वैशम्पायन उवाच 010
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः 010a
तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् 010c
विभ्राजमानां वपुषा तपसा च दमेन च 011a
रूपयौवनसम्पन्नामित्युवाच महीपतिः 011c
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् 012a
एवंरूपगुणोपेता कुतस्त्वमसि शोभने 012c
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः 013a
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने 013c
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे 014a
उवाच हसती वाक्यमिदं सुमधुराक्षरम् 014c
कण्वस्याहं भगवतो दुःषन्त दुहिता मता 015a
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः 015c
दुःषन्त उवाच 016
ऊर्ध्वरेता महाभागो भगवाल्ँलोकपूजितः 016a
चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः 016c
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी 017a
संशयो मे महानत्र तं मे छेत्तुमिहार्हसि 017c
शकुन्तलोवाच 018
यथायमागमो मह्यं यथा चेदमभूत्पुरा 018a
शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः 018c
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् 019a
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव 019c
तप्यमानः किल पुरा विश्वामित्रो महत्तपः 020a
सुभृशं तापयामास शक्रं सुरगणेश्वरम् 020c
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति 021a
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् 021c
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे 022a
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु 022c
असावादित्यसङ्काशो विश्वामित्रो महातपाः 023a
तप्यमानस्तपो घोरं मम कम्पयते मनः 023c
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे 024a
संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते 024c
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय 025a
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् 025c
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः 026a
लोभयित्वा वरारोहे तपसः सन्निवर्तय 026c
मेनकोवाच 027
महातेजाः स भगवान्सदैव च महातपाः 027a
कोपनश्च तथा ह्येनं जानाति भगवानपि 027c
तेजसस्तपसश्चैव कोपस्य च महात्मनः 028a
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् 028c
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् 029a
क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् 029c
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः 030a
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः 030c
बभार यत्रास्य पुरा काले दुर्गे महात्मनः 031a
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः 031c
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् 032a
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः 032c
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् 033a
त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर 033c
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा 034a
प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः 034c
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे 035a
यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो 035c
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा 036a
सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा 036c
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् 037a
कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् 037c
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् 038a
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् 038c
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे 039a
एतेऽपि यस्योद्विजन्ते प्रभावात्कस्मात्तस्मान्मादृशी नोद्विजेत 039c
त्वयैवमुक्ता च कथं समीपमृषेर्न गच्छेयमहं सुरेन्द्र 040a
रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् 040c
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव 041a
भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् 041c
वनाच्च वायुः सुरभिः प्रवायेत्तस्मिन्काले तमृषिं लोभयन्त्याः 042a
तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साश्रमं कौशिकस्य 042c