वैशम्पायन उवाच 001
ततो मृगसहस्राणि हत्वा विपुलवाहनः 001a
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह 001c
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः 002a
स वनस्यान्तमासाद्य महदीरिणमासदत् 002c
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् 003a
मनःप्रह्लादजननं दृष्टिकान्तमतीव च 003c
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् 003e
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् 004a
विपुलं मधुरारावैर्नादितं विहगैस्तथा 004c
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् 005a
षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् 005c
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी 006a
षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् 006c
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च 007a
सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् 007c
मनोरमं महेष्वासो विवेश वनमुत्तमम् 007e
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः 008a
पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः 008c
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः 009a
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः 009c
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु 010a
रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु 010c
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् 011a
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् 011c
सम्पश्यन्स महातेजा बभूव मुदितस्तदा 011e
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः 012a
अशोभत वनं तत्तैर्महेन्द्रध्वजसन्निभैः 012c
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः 013a
परिक्रामन्वने वृक्षानुपैतीव रिरंसया 013c
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः 014a
नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसन्निभम् 014c
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् 015a
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् 015c
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् 016a
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् 016c
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् 017a
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च 017c
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् 018a
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् 018c
तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः 018e
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत 019a
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् 019c
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः 020a
सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् 020c
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् 021a
सकिन्नरगणावासां वानरर्क्षनिषेविताम् 021c
पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् 022a
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् 022c
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा 023a
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा 023c
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया 024a
नरनारायणस्थानं गङ्गयेवोपशोभितम् 024c
मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् 024e
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः 025a
अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा 025c
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् 025e
रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् 026a
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः 026c
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् 027a
काश्यपं स्थीयतामत्र यावदागमनं मम 027c
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः 028a
क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् 028c
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः 029a
पुरोहितसहायश्च जगामाश्रममुत्तमम् 029c
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् 029e
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च 030a
षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् 030c
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः 031a
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु 031c
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि 032a
अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः 032c
अथर्ववेदप्रवराः पूगयाज्ञिक सम्मताः 033a
संहितामीरयन्ति स्म पदक्रमयुतां तु ते 033c
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः 034a
नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः 034c
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः 035a
न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः 035c
नानावाक्यसमाहारसमवायविशारदैः 036a
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः 036c
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः 037a
लोकायतिकमुख्यैश्च समन्तादनुनादितम् 037c
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् 038a
जपहोमपरान्सिद्धान्ददर्श परवीरहा 038c
आसनानि विचित्राणि पुष्पवन्ति महीपतिः 039a
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् 039c
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः 040a
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः 040c
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् 041a
नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् 041c
स काश्यपस्यायतनं महाव्रतैर्वृतं समन्तादृषिभिस्तपोधनैः 042a
विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् 042c