जनमेजय उवाच 001
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् 001a
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा 001c
इमं तु भूय इच्छामि कुरूणां वंशमादितः 002a
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ 002c
वैशम्पायन उवाच 003
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् 003a
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम 003c
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः 004a
समुद्रावरणांश्चापि देशान्स समितिञ्जयः 004c
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः 005a
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् 005c
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः 006a
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति 006c
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे 007a
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे 007c
नासीच्चोरभयं तात न क्षुधाभयमण्वपि 008a
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे 008c
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः 009a
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः 009c
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च 010a
सर्वरत्नसमृद्धा च मही वसुमती तदा 010c
स चाद्भुतमहावीर्यो वज्रसंहननो युवा 011a
उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् 011c
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च 012a
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः 012c
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः 013a
अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः 013c
सम्मतः स महीपालः प्रसन्नपुरराष्ट्रवान् 014a
भूयो धर्मपरैर्भावैर्विदितं जनमावसत् 014c