जनमेजय उवाच 001
देवानां दानवानां च यक्षाणामथ रक्षसाम् 001a
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् 001c
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् 002a
जन्म कर्म च भूतानामेतेषामनुपूर्वशः 002c
वैशम्पायन उवाच 003
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः 003a
प्रथमं दानवांश्चैव तान्स्ते वक्ष्यामि सर्वशः 003c
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः 004a
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः 004c
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः 005a
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः 005c
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः 006a
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः 006c
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः 007a
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः 007c
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः 008a
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः 008c
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः 009a
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः 009c
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् 010a
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः 010c
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः 011a
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः 011c
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् 012a
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः 012c
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः 013a
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः 013c
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः 014a
अशोको नाम राजासीन्महावीर्यपराक्रमः 014c
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः 015a
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः 015c
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः 016a
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः 016c
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः 017a
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः 017c
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः 018a
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः 018c
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः 019a
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः 019c
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः 020a
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः 020c
इसृपा नाम यस्तेषामसुराणां बलाधिकः 021a
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः 021c
एकचक्र इति ख्यात आसीद्यस्तु महासुरः 022a
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ 022c
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः 023a
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः 023c
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः 024a
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः 024c
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः 025a
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ 025c
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः 026a
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः 026c
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत 027a
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः 027c
शरभो नाम यस्तेषां दैतेयानां महासुरः 028a
पौरवो नाम राजर्षिः स बभूव नरेष्विह 028c
द्वितीयः शलभस्तेषामसुराणां बभूव यः 029a
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः 029c
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः 030a
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः 030c
मृतपा इति विख्यातो य आसीदसुरोत्तमः 031a
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम 031c
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः 032a
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः 032c
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः 033a
स विश्व इति विख्यातो बभूव पृथिवीपतिः 033c
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः 034a
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः 034c
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः 035a
शुनको नाम राजर्षिः स बभूव नराधिपः 035c
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः 036a
जानकिर्नाम राजर्षिः स बभूव नराधिपः 036c
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः 037a
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः 037c
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् 038a
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः 038c
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः 039a
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः 039c
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः 040a
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः 040c
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः 041a
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः 041c
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः 042a
मणिमान्नाम राजर्षिः स बभूव नराधिपः 042c
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः 043a
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ 043c
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः 044a
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः 044c
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः 045a
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः 045c
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः 046a
अष्टानां प्रवरस्तेषां कालेयानां महासुरः 046c
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः 047a
अपराजित इत्येव स बभूव नराधिपः 047c
तृतीयस्तु महाराज महाबाहुर्महासुरः 048a
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः 048c
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः 049a
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः 049c
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः 050a
महौजा इति विख्यातो बभूवेह परन्तपः 050c
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः 051a
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः 051c
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् 052a
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् 052c
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः 053a
बभूव राजन्धर्मात्मा सर्वभूतहिते रतः 053c
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः 054a
ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः 054c
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा 055a
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः 055c
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः 056a
वीरधामा च कौरव्य भूमिपालश्च नामतः 056c
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः 057a
रुक्मी च नृपशार्दूलो राजा च जनमेजयः 057c
आषाढो वायुवेगश्च भूरितेजास्तथैव च 058a
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः 058c
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च 059a
श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च 059c
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः 060a
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः 060c
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ 061a
जातः पुरा महाराज महाकीर्तिर्महाबलः 061c
यस्त्वासीद्देवको नाम देवराजसमद्युतिः 062a
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः 062c
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत 063a
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् 063c
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः 064a
बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह 064c
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः 065a
वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् 065c
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत 066a
एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः 066c
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः 067a
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप 067c
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः 068a
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च 068c
तेषामवरजो भीष्मः कुरूणामभयङ्करः 069a
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः 069c
जामदग्न्येन रामेण यः स सर्वविदां वरः 070a
अयुध्यत महातेजा भार्गवेण महात्मना 070c
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ 071a
रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् 071c
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः 072a
द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् 072c
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः 073a
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः 073c
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् 074a
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः 074c
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् 075a
जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् 075c
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् 076a
विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् 076c
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः 077a
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः 077c
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि 078a
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः 078c
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत 078e
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् 079a
विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् 079c
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः 080a
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः 080c
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः 081a
यः सर्वां घातयामास पृथिवीं पुरुषाधमः 081c
येन वैरं समुद्दीप्तं भूतान्तकरणं महत् 081e
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह 082a
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् 082c
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः 083a
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ 083c
धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम् 084a
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् 084c
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि 085a
नकुलः सहदेवश्च सर्वलोकमनोहरौ 085c
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् 086a
अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् 086c
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् 087a
शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् 087c
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ 088a
विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ 088c
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः 089a
दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् 089c
यस्तु नारायणो नाम देवदेवः सनातनः 090a
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् 090c
शेषस्यांशस्तु नागस्य बलदेवो महाबलः 091a
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् 091c
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् 092a
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः 092c
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः 093a
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च 093c
तानि षोडश देवीनां सहस्राणि नराधिप 094a
बभूवुर्मानुषे लोके नारायणपरिग्रहः 094c
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले 095a
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता 095c
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी 096a
पद्मायताक्षी सुश्रोणी असितायतमूर्धजा 096c
सर्वलक्षणसम्पन्ना वैडूर्यमणिसन्निभा 097a
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः 097c
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते 098a
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा 098c
इति देवासुराणां ते गन्धर्वाप्सरसां तथा 099a
अंशावतरणं राजन्राक्षसानां च कीर्तितम् 099c
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः 100a
महात्मानो यदूनां च ये जाता विपुले कुले 100c
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् 101a
इदमंशावतरणं श्रोतव्यमनसूयता 101c
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् 102a
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति 102c