001 वैशम्पायन उवाच ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः 001a
एकादश सुताः स्थाणोः ख्याताः परममानसाः 001c
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः 002a
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः 002c
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः 003a
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः 003c
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 004a
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः 004c
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः 005a
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः 005c
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप 006a
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः 006c
राक्षसास्तु पुलस्त्यस्य वानराः किन्नरास्तथा 007a
पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा 007c
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः 008a
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः 008c
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः 009a
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः 009c
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः 010a
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः 010c
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः 011a
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः 011c
ददौ स दश धर्माय सप्तविंशतिमिन्दवे 012a
दिव्येन विधिना राजन्कश्यपाय त्रयोदश 012c
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे 013a
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा 013c
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश 014a
द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा 014c
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः 015a
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः 015c
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः 015e
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः 016a
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् 016c
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः 017a
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः 017c
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा 018a
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा 018c
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः 019a
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ 019c
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा 020a
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः 020c
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते 021a
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा 021c
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः 022a
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः 022c
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः 023a
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः 023c
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः 024a
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु 024c
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् 025a
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ 025c
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी 026a
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत 026c
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह 026e
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः 027a
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः 027c
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः 028a
यो दिव्यानि विमानानि देवतानां चकार ह 028c
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः 029a
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् 029c
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः 030a
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः 030c
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः 031a
शमः कामश्च हर्षश्च तेजसा लोकधारिणः 031c
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना 032a
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः 032c
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः 033a
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः 033c
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी 034a
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ 034c
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप 035a
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः 035c
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव 036a
अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् 036c
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा 037a
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च 037c
वैनतेयस्तु गरुडो बलवानरुणस्तथा 038a
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते 038c
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् 039a
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः 039c
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते 039e
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः 040a
भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः 040c
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये 041a
स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति 041c
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः 042a
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः 042c
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे 043a
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् 043c
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् 044a
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत 044c
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः 045a
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः 045c
महातपा महातेजा बाल एव गुणैर्युतः 045e
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् 046a
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः 046c
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः 047a
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी 047c
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् 048a
तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः 048c
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् 049a
लोके धाता विधाता च यौ स्थितौ मनुना सह 049c
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा 050a
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः 050c
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत 051a
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् 051c
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् 052a
अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः 052c
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः 053a
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा 053c
053e भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् 054a
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः 054c
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत 055a
भासी भासानजनयद्गृध्रांश्चैव जनाधिप 055c
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः 056a
चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी 056c
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी 057a
कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता 057c
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः 058a
मृगीं च मृगमन्दां च हरिं भद्रमनामपि 058c
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च 059a
सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् 059c
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज 060a
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि 060c
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् 061a
ऐरावतः सुतस्तस्या देवनागो महागजः 061c
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः 062a
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते 062c
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत 063a
द्वीपिनश्च महाभाग सर्वानेव न संशयः 063c
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप 064a
दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् 064c
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत 065a
रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् 065c
065e रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् 066a
सप्त पिण्डफलान्वृक्षाननलापि व्यजायत 066c
066e अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ 067a
सम्पातिं जनयामास तथैव च जटायुषम् 067c
067e द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ इत्येष सर्वभूतानां महतां मनुजाधिप 068a
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर 068c
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः 069a
सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति 069c