वैशम्पायन उवाच 001
अथ नारायणेनेन्द्रश्चकार सह संविदम् 001a
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः 001c
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः 002a
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह 002c
तेऽमरारिविनाशाय सर्वलोकहिताय च 003a
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः 003c
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च 004a
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः 004c
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा 005a
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः 005c
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा 006a
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम 006c
जनमेजय उवाच 007
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा 007a
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् 007c
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः 008a
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि 008c
वैशम्पायन उवाच 009
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 009a
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् 009c
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः 010a
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 010c
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः 011a
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश 011c
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः 012a
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा 012c
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत 013a
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् 013c
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः 014a
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत 014c
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च 015a
भगो विवस्वान्पूषा च सविता दशमस्तथा 015c
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते 016a
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः 016c
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः 017a
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः 017c
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् 018a
अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ 018c
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत 019a
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः 019c
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् 020a
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः 020c
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत 021a
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः 021c
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः 022a
असिलोमा च केशी च दुर्जयश्चैव दानवः 022c
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् 023a
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः 023c
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा 024a
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः 024c
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ 025a
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा 025c
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा 026a
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः 026c
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ 026e
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः 027a
दनुपुत्रा महाराज दश दानवपुङ्गवाः 027c
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि 028a
वातापिः शत्रुतपनः शठश्चैव महासुरः 028c
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः 029a
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत 029c
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् 030a
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् 030c
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् 031a
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः 031c
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः 032a
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः 032c
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः 033a
भुवि ख्याता महावीर्या दानवेषु परन्तपाः 033c
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः 034a
क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः 034c
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् 035a
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः 035c
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ 036a
तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः 036c
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् 037a
असुराणां सुराणां च पुराणे संश्रुतो मया 037c
एतेषां यदपत्यं तु न शक्यं तदशेषतः 038a
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् 038c
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ 039a
आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः 039c
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः 040a
कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः 040c
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा 041a
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः 041c
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः 042a
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी 042c
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः 043a
कलिः पञ्चदशश्चैव नारदश्चैव षोडशः 043c
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः 043e
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत 044a
अनवद्यामनुवशामनूनामरुणां प्रियाम् 044c
अनूपां सुभगां भासीमिति प्रावा व्यजायत 044e
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः 045a
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः 045c
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा 046a
इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः 046c
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् 047a
प्रावासूत महाभागा देवी देवर्षितः पुरा 047c
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा 048a
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा 048c
असिता च सुबाहुश्च सुव्रता सुभुजा तथा 049a
सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू 049c
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः 049e
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा 050a
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् 050c
इति ते सर्वभूतानां सम्भवः कथितो मया 051a
यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा 051c
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा 052a
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् 052c
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः 053a
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता 053c
इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदेवसन्निधौ 054a
अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् 054c