001 जनमेजय उवाच
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः 001a
सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः 001c
यदर्थमिह सम्भूता देवकल्पा महारथाः 002a
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि 002c
वैशम्पायन उवाच 003
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् 003a
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 003c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा 004a
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे 004c
तदा निःक्षत्रिये लोके भार्गवेण कृते सति 005a
ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः 005c
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः 006a
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा 006c
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः 007a
ततः सुषुविरे राजन्क्षत्रियान्वीर्यसम्मतान् 007c
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये 007e
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः 008a
जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् 008c
चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः 008e
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा 009a
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि 009c
ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ 009e
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः 010a
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः 010c
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः 010e
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् 011a
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् 011c
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् 012a
ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् 012c
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः 013a
दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् 013c
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः 014a
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः 014c
न बाल एव म्रियते तदा कश्चिन्नराधिप 015a
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः 015c
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ 016a
इयं सागरपर्यन्ता समापूर्यत मेदिनी 016c
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः 017a
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा 017c
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप 018a
न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत 018c
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह 019a
न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् 019c
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः 020a
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा 020c
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः 021a
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः 021c
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप 022a
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् 022c
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ 023a
फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च 023c
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप 024a
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् 024c
ततः समुदिते लोके मानुषे भरतर्षभ 025a
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव 025c
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि 026a
ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह 026c
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः 027a
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो 027c
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च 028a
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च 028c
जातैरिह महीपाल जायमानैश्च तैर्मही 029a
न शशाकात्मनात्मानमियं धारयितुं धरा 029c
अथ जाता महीपालाः केचिद्बलसमन्विताः 030a
दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः 030c
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् 031a
इमां सागरपर्यन्तां परीयुररिमर्दनाः 031c
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् 032a
अन्यानि चैव भूतानि पीडयामासुरोजसा 032c
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते 033a
विचेरुः सर्वतो राजन्महीं शतसहस्रशः 033c
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः 034a
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च 034c
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः 035a
पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे 035c
न हीमां पवनो राजन्न नागा न नगा महीम् 036a
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् 036c
ततो मही महीपाल भारार्ता भयपीडिता 037a
जगाम शरणं देवं सर्वभूतपितामहम् 037c
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः 038a
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् 038c
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः 039a
वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा 039c
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी 040a
सन्निधौ लोकपालानां सर्वेषामेव भारत 040c
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः 041a
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः 041c
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत 042a
सुरासुराणां लोकानामशेषेण मनोगतम् 042c
तमुवाच महाराज भूमिं भूमिपतिर्विभुः 043a
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः 043c
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे 044a
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः 044c
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च 045a
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् 045c
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् 046a
अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् 046c
तथैव च समानीय गन्धर्वाप्सरसां गणान् 047a
उवाच भगवान्सर्वानिदं वचनमुत्तमम् 047c
स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति 047e
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः 048a
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा 048c
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः 049a
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः 049c
यः स चक्रगदापाणिः पीतवासासितप्रभः 050a
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः 050c
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् 051a
अंशेनावतरस्वेति तथेत्याह च तं हरिः 051c