वैशम्पायन उवाच 001
राजोपरिचरो नाम धर्मनित्यो महीपतिः 001a
बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः 001c
स चेदिविषयं रम्यं वसुः पौरवनन्दनः 002a
इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः 002c
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् 003a
देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् 003c
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै 004a
तं सान्त्वेन नृपं साक्षात्तपसः सन्न्यवर्तयत् 004c
इन्द्र उवाच 005
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते 005a
तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् 005c
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः 006a
धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् 006c
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः 007a
ऊधः पृथिव्या यो देशस्तमावस नराधिप 007c
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् 008a
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः 008c
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः 009a
वसुपूर्णा च वसुधा वस चेदिषु चेदिप 009c
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः 010a
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा 010c
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः 011a
युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च 011c
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद 012a
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् 012c
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् 013a
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते 013c
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः 014a
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव 014c
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् 015a
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् 015c
लक्षणं चैतदेवेह भविता ते नराधिप 016a
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् 016c
017 वैशम्पायन उवाच यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः 017a
इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् 017c
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा 018a
प्रवेशं कारयामास गते संवत्सरे तदा 018c
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः 019a
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः 019c
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः 020a
अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः 020c
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च 020e
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः 021a
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः 021c
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् 022a
वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः 022c
ये पूजयिष्यन्ति नरा राजानश्च महं मम 023a
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः 023c
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति 024a
तथा स्फीतो जनपदो मुदितश्च भविष्यति 024c
एवं महात्मना तेन महेन्द्रेण नराधिप 025a
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः 025c
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः 026a
भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै 026c
वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते 026e
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा 027a
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् 027c
इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः 027e
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः 028a
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् 028c
महारथो मगधराड्विश्रुतो यो बृहद्रथः 029a
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् 029c
मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः 029e
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः 030a
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च 030c
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः 030e
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् 031a
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् 031c
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् 031e
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः 032a
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल 032c
गिरिं कोलाहलं तं तु पदा वसुरताडयत् 033a
निश्चक्राम नदी तेन प्रहारविवरेण सा 033c
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् 034a
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् 034c
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः 035a
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमम् 035c
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः 035e
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् 036a
ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः 036c
तदहः पितरश्चैनमूचुर्जहि मृगानिति 037a
तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् 037c
स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः 038a
चचार मृगयां कामी गिरिकामेव संस्मरन् 038c
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् 038e
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने 039a
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः 039c
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत 040a
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः 040c
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः 041a
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः 041c
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः 042a
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् 042c
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् 042e
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय 043a
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै 043c
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् 044a
जवं परममास्थाय प्रदुद्राव विहङ्गमः 044c
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः 045a
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया 045c
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः 046a
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि 046c
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः 047a
मीनभावमनुप्राप्ता बभूव यमुनाचरी 047c
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् 048a
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी 048c
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः 049a
मासे च दशमे प्राप्ते तदा भरतसत्तम 049c
उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् 049e
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् 050a
काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति 050c
तयोः पुमांसं जग्राह राजोपरिचरस्तदा 051a
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः 051c
साप्सरा मुक्तशापा च क्षणेन समपद्यत 052a
पुरोक्ता या भगवता तिर्यग्योनिगता शुभे 052c
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि 052e
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना 053a
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च 053c
सिद्धर्षिचारणपथं जगामाथ वराप्सराः 053e
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी 054a
राज्ञा दत्ताथ दाशाय इयं तव भवत्विति 054c
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः 054e
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् 055a
आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता 055c
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले 056a
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः 056c
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् 057a
दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् 057c
विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः 057e
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् 058a
आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः 058c
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः 059a
येन देशः स सर्वस्तु तमोभूत इवाभवत् 059c
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा 060a
विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी 060c
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् 061a
त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ 061c
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम 062a
गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे 062c
एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् 062e
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः 063a
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि 063c
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि 064a
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते 064c
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् 065a
स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः 065c
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता 066a
जगाम सह संसर्गमृषिणाद्भुतकर्मणा 066c
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि 067a
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि 067c
ततो योजनगन्धेति तस्या नाम परिश्रुतम् 068a
पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् 068c
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् 069a
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा 069c
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् 069e
स मातरमुपस्थाय तपस्येव मनो दधे 070a
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् 070c
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् 071a
द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् 071c
पादापसारिणं धर्मं विद्वान्स तु युगे युगे 072a
आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च 072c
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया 073a
विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः 073c
वेदानध्यापयामास महाभारतपञ्चमान् 074a
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् 074c
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च 075a
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः 075c
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः 076a
वसुवीर्यात्समभवन्महावीर्यो महायशाः 076c
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया 077a
अणीमाण्डव्य इति वै विख्यातः सुमहायशाः 077c
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् 078a
इषीकया मया बाल्यादेका विद्धा शकुन्तिका 078c
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे 079a
तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः 079c
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः 080a
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि 080c
तेन शापेन धर्मोऽपि शूद्रयोनावजायत 081a
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी 081c
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् 082a
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः 082c
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 082e
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः 083a
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः 083c
अनादिनिधनो देवः स कर्ता जगतः प्रभुः 084a
अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् 084c
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् 085a
पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् 085c
अनन्तमचलं देवं हंसं नारायणं प्रभुम् 086a
धातारमजरं नित्यं तमाहुः परमव्ययम् 086c
पुरुषः स विभुः कर्ता सर्वभूतपितामहः 087a
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु 087c
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ 088a
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ 088c
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ 088e
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत 089a
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत 089c
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः 090a
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः 090c
अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः 090e
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः 091a
वैताने कर्मणि तते पावकात्समजायत 091c
वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् 091e
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा 092a
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् 092c
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः 093a
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् 093c
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा 094a
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ 094c
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः 095a
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः 095c
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् 096a
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः 096c
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः 097a
इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः 097c
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ 098a
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ 098c
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 099a
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा 099c
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत 100a
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः 100c
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे 101a
कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः 101c
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् 102a
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः 102c
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् 103a
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः 103c
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता 104a
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया 104c
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ 105a
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे 105c
तेषामपरिमेयानि नामधेयानि सर्वशः 106a
न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि 106c
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् 106e