वैशम्पायन उवाच 001
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः 001a
सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् 001c
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः 002a
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 002c
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् 003a
गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् 003c
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् 004a
राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च 004c
यथा च युद्धमभवत्पृथिवीक्षयकारकम् 005a
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ 005c
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् 006a
नचिरादिव विद्वांसो वेदे धनुषि चाभवन् 006c
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसम्मतान् 007a
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः 007c
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः 008a
तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् 008c
ददावथ विषं पापो भीमाय धृतराष्ट्रजः 009a
जरयामास तद्वीरः सहान्नेन वृकोदरः 009c
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् 010a
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् 010c
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् 011a
उदतिष्ठन्महाराज भीमसेनो गतव्यथः 011c
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् 012a
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा 012c
तेषां तु विप्रकारेषु तेषु तेषु महामतिः 013a
मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् 013c
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः 014a
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः 014c
यदा तु विविधोपायैः संवृतैर्विवृतैरपि 015a
नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् 015c
ततः सम्मन्त्र्य सचिवैर्वृषदुःशासनादिभिः 016a
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् 016c
तत्र तान्वासयामास पाण्डवानमितौजसः 017a
अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा 017c
विदुरस्यैव वचनात्खनित्री विहिता ततः 018a
मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् 018c
ततो महावने घोरे हिडिम्बं नाम राक्षसम् 019a
भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः 019c
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा 020a
ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः 020
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् 021a
ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः 021c
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः 022a
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः 022c
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च 023a
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति 023c
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः 023e
तस्माज्जनपदोपेतं सुविभक्तमहापथम् 024a
वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः 024c
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः 025a
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः 025c
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् 026a
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः 026c
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः 027a
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा 027c
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः 028a
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा 028c
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा 029a
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् 029c
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता 030a
षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः 030c
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः 031a
वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् 031c
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् 032a
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन 032c
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् 033a
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् 033c
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता 034a
सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह 034c
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् 035a
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम 035c
नातिभारो हि पार्थस्य केशवेनाभवत्सह 036a
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव 036c
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् 037a
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् 037c
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् 038a
स चकार सभां दिव्यां सर्वरत्नसमाचिताम् 038c
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः 039a
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् 039c
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च 040a
अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् 040c
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु 041a
नालभन्त महाराज ततो युद्धमवर्तत 041c
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् 042a
राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः 042c
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् 043a
भेदो राज्यविनाशश्च जयश्च जयतां वर 043c