सूत उवाच 001
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् 001a
अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा 001c
जनयामास यं काली शक्तेः पुत्रात्पराशरात् 002a
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् 002c
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् 003a
वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः 003c
यं नातितपसा कश्चिन्न वेदाध्ययनेन च 004a
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना 004c
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः 005a
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः 005c
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् 006a
शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः 006c
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा 007a
विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः 007c
तत्र राजानमासीनं ददर्श जनमेजयम् 008a
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् 008c
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः 009a
ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे 009c
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् 010a
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः 010c
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः 011a
आसनं कल्पयामास यथा शक्रो बृहस्पतेः 011c
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् 012a
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा 012c
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः 013a
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् 013c
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् 014a
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा 014c
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् 015a
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् 015c
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च 016a
सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् 016c
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः 017a
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः 017c
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् 018a
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज 018c
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् 019a
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् 019c
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् 020a
कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि 020c
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा 021a
शशास शिष्यमासीनं वैशम्पायनमन्तिके 021c
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा 022a
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि 022c
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा 023a
आचचक्षे ततः सर्वमितिहासं पुरातनम् 023c
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः 024a
भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा 024c