001 सूत उवाच
001a इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः
001c तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह
002a इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत
002c ततश्चिन्तापरो राजा बभूव जनमेजयः
003a हूयमाने भृशं दीप्ते विधिवत्पावके तदा
003c न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः
004 शौनक उवाच
004a किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्
004c न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः
005 सूत उवाच
005a तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम्
005c आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्
006a वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता
006c यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः
007a ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्
007c काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्
008a समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः
008c प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्
009a ततो हलहलाशब्दः प्रीतिजः समवर्तत
009c आस्तीकस्य वरे दत्ते तथैवोपरराम च
010a स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
010c प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः
011a ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः
011c तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः
012a लोहिताक्षाय सूताय तथा स्थपतये विभुः
012c येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्
013a निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु
013c ततश्चकारावभृथं विधिदृष्टेन कर्मणा
014a आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्
014c राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्
015a पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्
015c भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ
016a तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः
016c कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्
017a स गत्वा परमप्रीतो मातरं मातुलं च तम्
017c अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत्
018a एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः
018c तेऽऽस्तीके वै प्रीतिमन्तो बभूवुरूचुश्चैनं वरमिष्टं वृणीष्व
019a भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्
019c प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स
020 आस्तीक उवाच
020a सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि
धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् 020c
सूत उवाच 021
तैश्चाप्युक्तो भागिनेयः प्रसन्नैरेतत्सत्यं काममेवं चरन्तः 021a
प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय 021c
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः 022a
आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु 022c
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् 023a
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् 023c
सूत उवाच 024
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः 024a
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् 024c
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव 025a
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् 025c
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् 026a
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः 026c
शौनक उवाच 027
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् 027a
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते 027c
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन 028a
यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे 028c
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् 029a
कर्मान्तरेषु विधिवत्सदस्यानां महाकवे 029c
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् 030a
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः 030c
सूत उवाच 031
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः 031a
व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् 031c
शौनक उवाच 032
महाभारतमाख्यानं पाण्डवानां यशस्करम् 032a
जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा 032c
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः 033a
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् 033c
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः 034a
कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज 034c
सूत उवाच 035
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् 035a
कृष्णद्वैपायनमतं महाभारतमादितः 035c
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज 036a
शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते 036c