शौनक उवाच 001
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने 001a
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज 001c
सूत उवाच 002
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च 002a
न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम 002c
यथास्मृति तु नामानि पन्नगानां निबोध मे 003a
उच्यमानानि मुख्यानां हुतानां जातवेदसि 003c
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे 004a
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् 004c
कोटिको मानसः पूर्णः सहः पैलो हलीसकः 005a
पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः 005c
हिरण्यवाहः शरणः कक्षकः कालदन्तकः 006a
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् 006c
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् 007a
पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः 007c
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः 008a
शिलीशलकरो मूकः सुकुमारः प्रवेपनः 008c
मुद्गरः शशरोमा च सुमना वेगवाहनः 009a
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् 009c
पारावतः पारियात्रः पाण्डरो हरिणः कृशः 010a
विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः 010c
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् 011a
कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम 011c
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः 012a
बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ 012c
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् 013a
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् 013c
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ 014a
पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः 014c
आमाहठः कोमठकः श्वसनो मानवो वटः 015a
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः 015c
ऋषभो वेगवान्नाम पिण्डारकमहाहनू 016a
रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ 016c
वराहको वारणकः सुमित्रश्चित्रवेदिकः 017a
पराशरस्तरुणको मणिस्कन्धस्तथारुणिः 017c
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः 018a
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः 018c
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः 019a
न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः 019c
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे 020a
कालानलविषा घोरा हुताः शतसहस्रशः 020c
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः 021a
योजनायामविस्तारा द्वियोजनसमायताः 021c
कामरूपाः कामगमा दीप्तानलविषोल्बणाः 022a
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः 022c