जनमेजय उवाच 001
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे 001a
इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः 001c
सदस्या ऊचुः 002
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् 002a
सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् 002c
सूत उवाच 003
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच 003a
होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् 003c
जनमेजय उवाच 004
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् 004a
तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः 004c
ऋत्विज ऊचुः 005
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः 005a
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः 005c
सूत उवाच 006
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् 006a
स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव 006c
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् 007a
वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति 007c
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले 008a
होता च यत्तः स जुहाव मन्त्रैरथो इन्द्रः स्वयमेवाजगाम 008c
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः 009a
बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च 009c
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् 010a
ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् 010c
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः 011a
तमिन्द्रेणैव सहितं पातयध्वं विभावसौ 011c
ऋत्विज ऊचुः 012
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप 012a
श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् 012c
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः 013a
घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः 013c
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो 014a
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि 014c
जनमेजय उवाच 015
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् 015a
वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् 015c
सूत उवाच 016
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि 016a
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् 016c
वरं ददासि चेन्मह्यं वृणोमि जनमेजय 017a
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः 017c
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा 018a
नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् 018c
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो 019a
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम 019c
आस्तीक उवाच 020
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् 020a
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः 020c
सूत उवाच 021
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा 021a
पुनः पुनरुवाचेदमास्तीकं वदतां वरम् 021c
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम 022a
अयाचत न चाप्यन्यं वरं स भृगुनन्दन 022c
ततो वेदविदस्तत्र सदस्याः सर्व एव तम् 023a
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् 023c