आस्तीक उवाच 5001
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे 5001a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5001c
शक्रस्य यज्ञः शतसङ्ख्य उक्तस्तथापरस्तुल्यसङ्ख्यः शतं वै 5002a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5002c
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः 5003a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5003c
गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः 5004a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5004c
नृगस्य यज्ञस्त्वजमीढस्य चासीद्यथा यज्ञो दाशरथेश्च राज्ञः 5005a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5005c
यज्ञः श्रुतो नो दिवि देवसूनोर्युधिष्ठिरस्याजमीढस्य राज्ञः 5006a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5006c
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र 5007a
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 5007c
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा 5008a
नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् 5008c
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे 5009a
एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः 5009c
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा 5010a
प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः 5010c
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् 5011a
धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा 5011c
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् 5012a
मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे 5012c
खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः 5013a
आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् 5013c
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः 5014a
प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति 5014c
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः 5015a
श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् 5015c
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च 5016a
और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा 5016c
सूत उवाच 5017
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः 5017a
तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ 5017c