सूत उवाच 001
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा 001a
वासुकेर्नागराजस्य वचनादिदमब्रवीत् 001c
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः 002a
कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् 002c
आस्तीक उवाच 003
किन्निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे 003a
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा 003c
सूत उवाच 004
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी 004a
भगिनी नागराजस्य जरत्कारुरविक्लवा 004c
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः 005a
तया शप्ता रुषितया सुता यस्मान्निबोध तत् 005c
उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम 006a
विनतानिमित्तं पणिते दासभावाय पुत्रकाः 006c
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः 007a
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ 007c
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः 008a
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च 008c
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा 009a
अमृते मथिते तात देवाञ्शरणमीयिवान् 009c
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् 010a
भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् 010c
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् 011a
राज्ञा वासुकिना सार्धं स शापो न भवेदिति 011c
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् 012a
अभिशापः स मात्रास्य भगवन्न भवेदिति 012c
ब्रह्मोवाच 013
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति 013a
तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति 013c
जरत्कारुरुवाच 014
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः 014a
प्रादान्माममरप्रख्य तव पित्रे महात्मने 014c
प्रागेवानागते काले तत्र त्वं मय्यजायथाः 014e
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि 015a
भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् 015c
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते 016a
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे 016c
सूत उवाच 017
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा 017a
अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव 017c
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम 018a
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते 018c
भव स्वस्थमना नाग न हि ते विद्यते भयम् 019a
प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति 019c
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा 019e
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् 020a
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल 020c
यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम 020e
स सम्भावय नागेन्द्र मयि सर्वं महामते 021a
न ते मयि मनो जातु मिथ्या भवितुमर्हति 021c
वासुकिरुवाच 022
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते 022a
दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः 022c
आस्तीक उवाच 023
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम 023a
दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् 023c
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् 024a
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन 024c
सूत उवाच 025
ततः स वासुकेर्घोरमपनीय मनोज्वरम् 025a
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् 025c
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः 026a
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः 026c
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् 027a
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः 027c
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः 028a
अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः 028c