शौनक उवाच 001
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः 001a
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः 001c
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे 002a
विषादजननेऽत्यर्थं पन्नगानां महाभये 002c
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति 003a
सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज 003c
सूत उवाच 004
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् 004a
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा 004c
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः 005a
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः 005c
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः 006a
ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः 006c
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् 007a
उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः 007c
असितो देवलश्चैव नारदः पर्वतस्तथा 008a
आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा 008c
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् 009a
कहोडो देवशर्मा च मौद्गल्यः शमसौभरः 009c
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 010a
सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह 010c
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ 011a
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः 011c
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः 012a
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा 012c
पततां चैव नागानां धिष्ठितानां तथाम्बरे 013a
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् 013c
तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम् 014a
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् 014c
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः 015a
अगच्छच्छरणं भीत आगस्कृत्वा पुरन्दरम् 015c
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक 016a
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन 016c
प्रसादितो मया पूर्वं तवार्थाय पितामहः 017a
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः 017c
एवमाश्वासितस्तेन ततः स भुजगोत्तमः 018a
उवास भवने तत्र शक्रस्य मुदितः सुखी 018c
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः 019a
अल्पशेषपरीवारो वासुकिः पर्यतप्यत 019c
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् 020a
स घूर्णमानहृदयो भगिनीमिदमब्रवीत् 020c
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च 021a
सीदामीव च सम्मोहाद्घूर्णतीव च मे मनः 021c
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च 022a
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ 022c
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया 023a
व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् 023c
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः 024a
जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् 024c
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे 025a
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः 025c
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसम्मतम् 026a
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् 026c