सूत उवाच 001
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः 001a
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः 001c
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा 001e
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः 002a
अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः 002c
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् 003a
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे 003c
अपि तत्कर्म विदितं भवतां येन पन्नगम् 004a
तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् 004c
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना 005a
तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् 005c
ऋत्विज ऊचुः 006
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् 006a
सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप 006c
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप 007a
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः 007c
सूत उवाच 008
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् 008a
हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम 008c
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा 009a
आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे 009c
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम 010a
देशं तं मापयामासुर्यज्ञायतनकारणात् 010c
यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः 010e
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् 011a
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् 011c
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् 012a
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा 012c
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति 013a
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा 013c
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् 014a
स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः 014c
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा 015a
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता 015c
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः 015e
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् 016a
क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति 016c
ततः कर्म प्रववृते सर्पसत्रे विधानतः 017a
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः 017c
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः 018a
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् 018c
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते 019a
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा 019c
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने 020a
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् 020c
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे 021a
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे 021c
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा 022a
रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ 022c
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च 023a
अवशानि विनष्टानि पन्नगानां द्विजोत्तम 023c
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे 024a
मत्ता इव च मातङ्गा महाकाया महाबलाः 024c
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः 025a
घोराश्च परिघप्रख्या दन्दशूका महाबलाः 025c
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः 025e