मन्त्रिण ऊचुः 001
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् 001a
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ 001c
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः 002a
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः 002c
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह 003a
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा 003c
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा 003e
मृतं सर्पं समासक्तं पित्रा ते जनमेजय 004a
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् 004c
तपस्विनमतीवाथ तं मुनिप्रवरं नृप 005a
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते 005c
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा 006a
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् 006c
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् 007a
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव 007c
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः 008a
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः 008c
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह 009a
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव 009c
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् 010a
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति 010c
सप्तरात्रादितः पापं पश्य मे तपसो बलम् 010e
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् 011a
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् 011c
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः 012a
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते 012c
तक्षकस्त्वां महाराज तेजसा सादयिष्यति 012e
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय 013a
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् 013c
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते 014a
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत 014c
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा 015a
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् 015c
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति 015e
काश्यप उवाच 016
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज 016a
तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै 016c
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् 017a
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति 017c
तक्षक उवाच 018
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि 018a
ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् 018c
मन्त्रिण ऊचुः 019
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः 019a
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा 019c
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् 020a
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ 020c
स एवमुक्तो नागेन काश्यपो द्विपदां वरः 021a
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् 021c
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः 022a
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव 022c
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना 023a
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः 023c
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम 024a
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् 024c
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् 025a
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् 025c
जनमेजय उवाच 026
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने 026a
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा 026c
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् 027a
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् 027c
मन्त्रिण ऊचुः 028
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा 028a
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि 028c
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव 029a
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् 029c
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ 029e
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा 030a
द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः 030c
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् 031a
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च 031c
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् 032a
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् 032c
सूत उवाच 033
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः 033a
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् 033c
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः 034a
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः 034c
उवाच च महीपालो दुःखशोकसमन्वितः 034e
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति 035a
निश्चितेयं मम मतिर्या वै तां मे निबोधत 035c
अनन्तरमहं मन्ये तक्षकाय दुरात्मने 036a
प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता 036c
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् 037a
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम 037c
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः 038a
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च 038c
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् 039a
सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् 039c
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः 040a
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति 040c
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् 041a
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः 041c