शौनक उवाच 001
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः 001a
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद 001c
सूत उवाच 002
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा 002a
आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः 002c
जनमेजय उवाच 003
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम 003a
आसीद्यथा च निधनं गतः काले महायशाः 003c
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः 004a
कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् 004c
सूत उवाच 005
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना 005a
सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् 005c
धर्मात्मा च महात्मा च प्रजापालः पिता तव 006a
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् 006c
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत 007a
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव 007c
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः 008a
द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन 008c
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् 008e
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु 009a
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः 009c
विधवानाथकृपणान्विकलांश्च बभार सः 010a
सुदर्शः सर्वभूतानामासीत्सोम इवापरः 010c
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः 011a
धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः 011c
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय 012a
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः 012c
परिक्षीणेषु कुरुषु उत्तरायामजायत 013a
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली 013c
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः 014a
जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः 014c
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः 015a
प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् 015c
ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् 015e
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् 016a
इदं वर्षसहस्राय राज्यं कुरुकुलागतम् 016c
बाल एवाभिजातोऽसि सर्वभूतानुपालकः 016e
जनमेजय उवाच 017
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च 017a
विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् 017c
कथं निधनमापन्नः पिता मम तथाविधः 018a
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः 018c
सूत उवाच 019
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् 019a
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः 019c
बभूव मृगयाशीलस्तव राजन्पिता सदा 020a
यथा पाण्डुर्महाभागो धनुर्धरवरो युधि 020c
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः 020e
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा 021a
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने 021c
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् 022a
न चाससाद गहने मृगं नष्टं पिता तव 022c
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः 023a
क्षुधितः स महारण्ये ददर्श मुनिमन्तिके 023c
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् 024a
न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् 024c
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् 025a
मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ 025c
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् 026a
स तं मन्युसमाविष्टो धर्षयामास ते पिता 026c
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् 027a
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम 027c
न चोवाच स मेधावी तमथो साध्वसाधु वा 028a
तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् 028c