सूत उवाच 001
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा 001a
सनामा तव कन्येयं स्वसा मे तपसान्विता 001c
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम 002a
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन 002c
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति 003a
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह 003c
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः 004a
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् 004c
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य सम्मतम् 005a
जगाम भार्यामादाय स्तूयमानो महर्षिभिः 005c
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् 006a
तत्र भार्यासहायः स जरत्कारुरुवास ह 006c
स तत्र समयं चक्रे भार्यया सह सत्तमः 007a
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन 007c
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे 008a
एतद्गृहाण वचनं मया यत्समुदीरितम् 008c
ततः परमसंविग्ना स्वसा नागपतेस्तु सा 009a
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति 009c
तथैव सा च भर्तारं दुःखशीलमुपाचरत् 010a
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी 010c
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा 011a
भर्तारं तं यथान्यायमुपतस्थे महामुनिम् 011c
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः 012a
अतीव तपसा युक्तो वैश्वानरसमद्युतिः 012c
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः 012e
ततः कतिपयाहस्य जरत्कारुर्महातपाः 013a
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् 013c
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् 014a
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा 014c
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी 014e
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा 015a
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् 015c
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः 016a
धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः 016c
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति 017a
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् 017c
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा 018a
तमृषिं दीप्ततपसं शयानमनलोपमम् 018c
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी 018e
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति 019a
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः 019c
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः 020a
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो 020c
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः 021a
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् 021c
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे 022a
समीपे ते न वत्स्यामि गमिष्यामि यथागतम् 022c
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः 023a
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते 023c
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् 024a
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा 024c
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् 025a
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने 025c
नावमानात्कृतवती तवाहं प्रतिबोधनम् 026a
धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया 026c
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः 027a
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् 027c
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे 028a
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः 028c
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे 029a
इतो मयि गते भीरु गतः स भगवानिति 029c
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि 029e
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा 030a
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा 030c
बाष्पगद्गदया वाचा मुखेन परिशुष्यता 031a
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः 031c
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता 031e
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् 032a
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् 032c
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम 033a
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः 033c
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम 034a
अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते 034c
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् 035a
सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज 035c
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये 036a
इममव्यक्तरूपं मे गर्भमाधाय सत्तम 036c
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् 036e
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् 037a
यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः 037c
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः 038a
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः 038c
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः 039a
उग्राय तपसे भूयो जगाम कृतनिश्चयः 039c