सूत उवाच 001
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः 001a
उवाच स्वान्पितॄन्दुःखाद्बाष्पसन्दिग्धया गिरा 001c
अहमेव जरत्कारुः किल्बिषी भवतां सुतः 002a
तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः 002c
पितर ऊचुः 003
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया 003a
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः 003c
जरत्कारुरुवाच 004
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते 004a
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै 004c
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः 005a
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः 005c
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः 006a
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन 006c
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता 007a
प्रतिग्रहीता तामस्मि न भरेयं च यामहम् 007c
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि 008a
अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः 008c
सूत उवाच 009
एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः 009a
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक 009c
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा 01oa
तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः 010c
यानि भूतानि सन्तीह स्थावराणि चराणि च 011a
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः 011c
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् 012a
निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया 012c
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः 013a
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः 013c
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः 014a
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् 014c
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् 015a
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत 015c
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः 016a
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् 016c
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् 017a
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः 017c
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने 018a
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत 018c
असनामेति वै मत्वा भरणे चाविचारिते 019a
मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे 019c
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन 020a
वासुके भरणं चास्या न कुर्यामित्युवाच ह 020c