सूत उवाच 001
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः 001a
चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः 001c
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः 002a
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह 002c
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः 003a
स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् 003c
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् 004a
तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् 004c
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः 005a
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत 005c
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः 006a
दुर्बलं खादितैर्मूलैराखुना बिलवासिना 006c
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् 007a
तदप्ययं शनैराखुरादत्ते दशनैः शितैः 007c
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव 008a
ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः 008c
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् 009a
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः 009c
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः 010a
अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् 010C
अथवापि समग्रेण तरन्तु तपसा मम 011a
भवन्तः सर्व एवास्मात्काममेवं विधीयताम् 011c
पितर ऊचुः 012
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति 012a
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् 012c
अस्ति नस्तात तपसः फलं प्रवदतां वर 013a
सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ 013c
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै 014a
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् 014c
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् 015a
शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज 015c
यायावरा नाम वयमृषयः संशितव्रताः 016a
लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो 016c
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै 017a
अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा 017c
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले 018a
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः 018c
नियतात्मा महात्मा च सुव्रतः सुमहातपाः 018e
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् 019a
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन 019c
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् 020a
स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया 020c
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः 021a
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो 021c
कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन 021e
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् 022a
एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः 022c
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः 023a
एते नस्तन्तवस्तात कालेन परिभक्षिताः 023c
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् 024a
तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः 024c
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः 025a
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् 025c
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् 025e
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम 026a
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः 026c
नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा 026e
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः 027a
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः 027c
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् 028a
तत्सर्वं न समं तात सन्तत्येति सतां मतम् 028c
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् 029a
यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः 029c
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा 030a
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया 030c