001 सूत उवाच
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् 001a
विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः 001c
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः 002a
अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् 002c
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् 003a
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः 003c
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः 004a
भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा 004c
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः 005a
शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः 005c
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः 006a
नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः 006c
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा 007a
शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा 007c
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः 008a
सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः 008c
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः 009a
स चापि तां प्राप्य मुदा युतोऽभवन्न चान्यनारीषु मनो दधे क्वचित् 009c
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् 010a
तथा स राजन्यवरो विजह्रिवान्यथोर्वशीं प्राप्य पुरा पुरूरवाः 010c
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् 011a
भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी 011c