तक्षक उवाच 001
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् 001a
ततो वृक्षं मया दष्टमिमं जीवय काश्यप 001c
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च 002a
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम 002c
काश्यप उवाच 003
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे 003a
अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम 003c
सूत उवाच 004
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना 004a
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः 004c
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते 005a
आशीविषविषोपेतः प्रजज्वाल समन्ततः 005c
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् 006a
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् 006c
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा 007a
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् 007c
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ 008a
अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम 008c
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः 009a
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् 009c
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् 010a
पलाशिनं शाखिनं च तथा विटपिनं पुनः 010c
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना 011a
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि 011c
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा 012a
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन 012c
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् 013a
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् 013c
विप्रशापाभिभूते च क्षीणायुषि नराधिपे 014a
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् 014c
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् 015a
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् 015c
काश्यप उवाच 016
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम 016a
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम 016c
तक्षक उवाच 017
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् 017a
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम 017c
सूत उवाच 018
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः 018a
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् 018c
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा 019a
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः 019c
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् 019e
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि 020a
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् 020c
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् 021a
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः 021c
स चिन्तयामास तदा मायायोगेन पार्थिवः 022a
मया वञ्चयितव्योऽसौ क उपायो भवेदिति 022c
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् 023a
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः 023c
तक्षक उवाच 024
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया 024a
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् 024c
सूत उवाच 025
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः 025a
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च 025c
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् 026a
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् 026c
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु 027a
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः 027c
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः 028a
तापसैरुपनीतानि फलानि सहिता मया 028c
ततो राजा ससचिवः फलान्यादातुमैच्छत 029a
यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः 029c
ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक 029e
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् 030a
अस्तमभ्येति सविता विषादद्य न मे भयम् 030c
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् 031a
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् 031c
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः 032a
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य ह 032c
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः 032e
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः 033a
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् 033c