शृङ्ग्युवाच 001
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् 001a
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया 001c
नैवान्यथेदं भविता पितरेष ब्रवीमि ते 002a
नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् 002c
शमीक उवाच 003
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा 003a
नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति 003c
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु 004a
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः 004c
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो 005a
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् 005c
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर 006a
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् 006c
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् 007a
चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि 007c
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् 008a
ततो धर्मविहीनानां गतिरिष्टा न विद्यते 008c
शम एव यतीनां हि क्षमिणां सिद्धिकारकः 009a
क्षमावतामयं लोकः परश्चैव क्षमावताम् 009c
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः 010a
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् 010c
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै 011a
तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै 011c
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना 012a
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा 012c
सूत उवाच 013
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः 013a
परिक्षिते नृपतये दयापन्नो महातपाः 013c
सन्दिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च 014a
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् 014c
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् 015a
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः 015c
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः 016a
आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः 016c
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ 016e
शमीको नाम राजेन्द्र विषये वर्तते तव 017a
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः 017c
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः 018a
अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम 018c
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे 018e
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै 019a
तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति 019c
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् 020a
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत 020c
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् 021a
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना 021c
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः 022a
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः 022c
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा 023a
भूय एवाभवद्राजा शोकसन्तप्तमानसः 023c
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु 024a
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः 024c
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत 025a
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् 025c
ततस्तं प्रेषयामास राजा गौरमुखं तदा 026a
भूयः प्रसादं भगवान्करोत्विति ममेति वै 026c
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा 027a
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः 027c
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् 028a
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् 028c
रक्षां च विदधे तत्र भिषजश्चौषधानि च 029a
ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् 029c
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः 030a
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः 030c
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम 031a
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् 031c
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् 032a
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् 032c
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् 033a
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् 033c
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि 034a
गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः 034c
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् 035a
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति 035c
काश्यप उवाच 036
नृपं कुरुकुलोत्पन्नं परिक्षितमरिन्दमम् 036a
तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति 036c
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा 037a
पाण्डवानां कुलकरं राजानममितौजसम् 037c
गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् 037e
तक्षक उवाच 038
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् 038a
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् 038c
काश्यप उवाच 039
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् 039a
करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः 039c