सूत उवाच 001
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः 001a
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना 001c
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् 002a
अपृच्छत कथं तातः स मेऽद्य मृतधारकः 002c
कृश उवाच 003
राज्ञा परिक्षिता तात मृगयां परिधावता 003a
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः 003c
शृङ्ग्युवाच 004
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः 004a
ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् 004c
कृश उवाच 005
स राजा मृगयां यातः परिक्षिदभिमन्युजः 005a
ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा 005c
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने 006a
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् 006c
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः 007a
पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव 007c
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत 008a
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् 008c
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः 009a
सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् 009c
सूत उवाच 010
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः 010a
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना 010c
आविष्टः स तु कोपेन शशाप नृपतिं तदा 011a
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः 011c
शृङ्ग्युवाच 012
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च 012a
स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी 012c
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः 013a
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः 013c
सप्तरात्रादितो नेता यमस्य सदनं प्रति 014a
द्विजानामवमन्तारं कुरूणामयशस्करम् 014c
सूत उवाच 015
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् 015a
आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् 015c
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै 016a
शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः 016c
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् 017a
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना 017c
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् 018a
यथार्हति स एवोग्रं शापं कुरुकुलाधमः 018c
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः 019a
वैवस्वतस्य भवनं नेता परमदारुणम् 019c
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् 020a
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् 020c
वयं तस्य नरेन्द्रस्य विषये निवसामहे 021a
न्यायतो रक्षितास्तेन तस्य पापं न रोचये 021c
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा 022a
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः 022c
यदि राजा न रक्षेत पीडा वै नः परा भवेत् 023a
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् 023c
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः 024a
चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः 024c
परिक्षित्तु विशेषेण यथास्य प्रपितामहः 025a
रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा 025c
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना 026a
अजानता व्रतमिदं कृतमेतदसंशयम् 026c
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् 027a
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा 027c