शौनक उवाच 001
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन 001a
इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः 001c
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि 002a
जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि 002c
सूत उवाच 003
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् 003a
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः 003c
क्षपयामास तीव्रेण तपसेत्यत उच्यते 004a
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा 004c
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा 005a
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् 005c
सूत उवाच 006
अथ कालस्य महतः स मुनिः संशितव्रतः 006a
तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत 006c
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् 007a
चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् 007c
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु 008a
परिक्षिदिति विख्यातो राजा कौरववंशभृत् 008c
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि 009a
बभूव मृगयाशीलः पुरास्य प्रपितामहः 009c
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा 010a
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः 010c
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा 011a
पृष्ठतो धनुरादाय ससार गहने वने 011c
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि 012a
अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः 012c
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् 013a
पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति 013c
परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः 013e
दूरं चापहृतस्तेन मृगेण स महीपतिः 014a
परिश्रान्तः पिपासार्त आससाद मुनिं वने 014c
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् 015a
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः 015c
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् 016a
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः 016c
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः 017a
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि 017c
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः 018a
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् 018c
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत 019a
न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् 019c
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् 020a
दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः 020c
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः 021a
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः 021c
स देवं परमीशानं सर्वभूतहिते रतम् 022a
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः 022c
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् 022e
सख्योक्तः क्रीडमानेन स तत्र हसता किल 023a
संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः 023c
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम 023e
तेजस्विनस्तव पिता तथैव च तपस्विनः 024a
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव 024c
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः 025a
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु 025c
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः 026a
दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथास 026c