सूत उवाच 001
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम 001a
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् 001c
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत 002a
जरत्कारुं स्वसारं वै परं हर्षमवाप च 002c
ततो नातिमहान्कालः समतीत इवाभवत् 003a
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् 003c
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः 004a
समाप्यैव च तत्कर्म पितामहमुपागमन् 004c
देवा वासुकिना सार्धं पितामहमथाब्रुवन् 005a
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् 005c
तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि 006a
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः 006c
हितो ह्ययं सदास्माकं प्रियकारी च नागराट् 007a
कुरु प्रसादं देवेश शमयास्य मनोज्वरम् 007c
ब्रह्मोवाच 008
मयैवैतद्वितीर्णं वै वचनं मनसामराः 008a
एलापत्रेण नागेन यदस्याभिहितं पुरा 008c
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा 009a
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः 009c
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः 010a
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु 010c
यदेलापत्रेण वचस्तदोक्तं भुजगेन ह 011a
पन्नगानां हितं देवास्तत्तथा न तदन्यथा 011c
सूत उवाच 012
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा 012a
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् 012c
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः 013a
शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति 013c