सूत उवाच 001
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च 001a
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् 001c
न स यज्ञो न भविता न स राजा तथाविधः 002a
जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् 002c
दैवेनोपहतो राजन्यो भवेदिह पूरुषः 003a
स दैवमेवाश्रयते नान्यत्तत्र परायणम् 003c
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः 004a
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम 004c
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा 005a
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः 005c
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो 006a
पितामहमुपागम्य दुःखार्तानां महाद्युते 006c
देवा ऊचुः 007
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह 007a
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः 007c
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह 008a
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता 008c
ब्रह्मोवाच 009
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः 009a
प्रजानां हितकामोऽहं न निवारितवांस्तदा 009c
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः 010a
तेषां विनाशो भविता न तु ये धर्मचारिणः 010c
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् 011a
पन्नगानां निबोधध्वं तस्मिन्काले तथागते 011c
यायावरकुले धीमान्भविष्यति महानृषिः 012a
जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः 012c
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः 013a
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा 013c
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः 013e
देवा ऊचुः 014
स मुनिप्रवरो देव जरत्कारुर्महातपाः 014a
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् 014c
ब्रह्मोवाच 015
सनामायां सनामा स कन्यायां द्विजसत्तमः 015a
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति 015c
एलापत्र उवाच 016a
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् 016a
उक्त्वा चैवं गता देवाः स च देवः पितामहः 016c
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव 017a
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय 017c
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये 018a
ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया 018c