सूत उवाच 001
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः 001a
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् 001c
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः 002a
ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः 002c
वासुकिरुवाच 003
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः 003a
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे 003c
सर्वेषामेव शापानां प्रतिघातो हि विद्यते 004a
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः 004c
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः 005a
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः 005c
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः 006a
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् 006c
तस्मात्सम्मन्त्रयामोऽत्र भुजगानामनामयम् 007a
यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् 007c
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे 008a
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् 008c
यथा स यज्ञो न भवेद्यथा वापि पराभवेत् 009a
जनमेजयस्य सर्पाणां विनाशकरणाय हि 009c
सूत उवाच 010
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः 010a
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः 010c
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः 011a
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति 011c
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः 012a
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसम्मताः 012c
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् 013a
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते 013c
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः 014a
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् 014c
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् 015a
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः 015c
अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति 016a
सर्पसत्रविधानज्ञो राजकार्यहिते रतः 016c
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति 017a
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति 017c
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः 018a
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति 018c
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः 019a
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना 019c
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा 020a
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् 020c
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् 021a
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः 021c
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः 022a
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति 022c
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः 023a
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति 023c
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः 024a
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना 024c
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे 025a
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति 025c
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् 025e
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् 026a
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः 026c
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः 027a
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति 027c
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति 027e
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव सम्मता 028a
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् 028c
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् 029a
वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् 029c
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः 030a
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते 030c
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् 031a
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ 031c