शौनक उवाच 001
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च 001a
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन 001c
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा 002a
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः 002c
पन्नगानां तु नामानि न कीर्तयसि सूतज 003a
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् 003c
सूत उवाच 004
बहुत्वान्नामधेयानि भुजगानां तपोधन 004a
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु 004c
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् 005a
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ 005c
कालियो मणिनागश्च नागश्चापूरणस्तथा 006a
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः 006c
नीलानीलौ तथा नागौ कल्माषशबलौ तथा 007a
आर्यकश्चादिकश्चैव नागश्च शलपोतकः 007c
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः 008a
आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा 008c
निष्ट्यूनको हेमगुहो नहुषः पिङ्गलस्तथा 009a
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः 009c
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा 010a
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ 010c
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः 011a
क्षेमकश्च महानागो नागः पिण्डारकस्तथा 011c
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः 012a
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः 012c
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा 013a
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा 013c
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् 014a
हस्तिभद्रः पिठरको मुखरः कोणवासनः 014c
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः 015a
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा 015c
कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ 015e
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम 016a
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः 016c
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः 017a
असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम 017c
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च 018a
अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन 018c