गरुड उवाच 001
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर 001a
बलं तु मम जानीहि महच्चासह्यमेव च 001c
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् 002a
गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो 002c
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया 003a
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः 003c
सपर्वतवनामुर्वीं ससागरवनामिमाम् 004a
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् 004c
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् 005a
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् 005c
सूत उवाच 006
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः 006a
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः 006c
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् 007a
न कार्यं तव सोमेन मम सोमः प्रदीयताम् 007c
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् 007e
गरुड उवाच 008
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया 008a
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् 008c
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् 009a
त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर 009c
शक्र उवाच 010
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज 010a
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम 010c
सूत उवाच 011
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् 011a
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः 011c
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् 012a
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः 012c
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः 013a
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् 013c
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् 014a
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् 014c
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः 015a
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः 015c
अदासी चैव मातेयमद्यप्रभृति चास्तु मे 016a
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् 016c
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत 017a
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः 017c
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा 018a
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः 018c
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् 019a
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा 019c
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा 020a
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः 020c
ततः सुपर्णः परमप्रहृष्टवान्विहृत्य मात्रा सह तत्र कानने 021a
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत् 021c
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि 022a
असंशयं त्रिदिवमियात्स पुण्यभाङ्महात्मनः पतगपतेः प्रकीर्तनात् 022c